श्रीशिवाष्टकं ॥ Shri
Shivashtakam
॥ अथ
श्री शिवाष्टकम्
॥
प्रभुं प्राणनाथं
विभुं विश्वनाथं
जगन्नाथनाथं सदानन्दभाजम्
।
भवद्भव्यभूतेश्वरं भूतनाथं
शिवं शङ्करं
शम्भुमीशानमीडे ॥
१॥
गले रुण्डमालं
तनौ सर्पजालं
महाकालकालं गणेशाधिपालम्
।
जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं
शङ्करं शम्भुमीशानमीडे
॥ २॥
मुदामाकरं मण्डनं
मण्डयन्तं महामण्डलं
भस्मभूषाधरं तम्
।
अनादिह्यपारं महामोहहारं
शिवं शङ्करं
शम्भुमीशानमीडे ॥
३॥
वटाधोनिवासं महाट्टाट्टहासं
महापापनाशं सदासुप्रकाशम्
।
गिरीशं गणेशं
महेशं सुरेशं
शिवं शङ्करं
शम्भुमीशानमीडे ॥
४॥
गिरिन्द्रात्मजासंग्रहीतार्धदेहं गिरौ
संस्थितं सर्वदा
सन्नगेहम् ।
परब्रह्मब्रह्मादिभिर्वन्ध्यमानं शिवं
शङ्करं शम्भुमीशानमीडे
॥ ५॥
कपालं त्रिशूलं
कराभ्यां दधानं
पदाम्भोजनम्राय कामं
ददानम् ।
बलीवर्दयानं सुराणां
प्रधानं शिवं
शङ्करं शम्भुमीशानमीडे
॥ ६॥
शरच्चन्द्रगात्रं गुणानन्द
पात्रं त्रिनेत्रं
पवित्रं धनेशस्य
मित्रम् ।
अपर्णाकलत्रं चरित्रं
विचित्रं शिवं
शङ्करं शम्भुमीशानमीडे
॥ ७॥
हरं सर्पहारं
चिता भूविहारं
भवं वेदसारं
सदा निर्विकारम्
।
श्मशाने वसन्तं
मनोजं दहन्तं
शिवं शङ्करं
शम्भुमीशानमीडे ॥
८॥
स्तवं यः
प्रभाते नरः
शूलपाणे पठेत्
सर्वदा भर्गभावानुरक्तः
।
स पुत्रं
धनं धान्यमित्रं
कलत्रं विचित्रं
समासाद्य मोक्षं
प्रयाति ॥
९॥
॥ इति
शिवाष्टकं सम्पूर्णम्
॥