Google search engine
Homeनवग्रह स्तोत्रम् ।। Navgrah Stotramनवग्रह स्तोत्रम् ।। Navgrah Stotram

नवग्रह स्तोत्रम् ।। Navgrah Stotram

 नवग्रह स्तोत्रम् ।।
Navgrah Stotram


रविः

जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम् |

तमोऽरिं सर्व पापघ्नं प्रणतोस्मि दिवाकरम्

 

चन्द्रः

दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम्

नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्


मंगल:

धरणी गर्भ सम्भूतं विद्युत्कान्ति समप्रभम् |

कुमारं शक्तिहस्तं तं मङ्गळं प्रणमाम्यहम्

बुधः

प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्


गुरुः

देवानां ऋषीणां गुरुं काञ्चनसन्निभम् |

बुद्धिमन्तं त्रिलोकेशं तं नमामि बृहस्पतिम्


शुक्रः

हिमकुन्द मृणाळाभं दैत्यानं परमं गुरुम् |

सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम्


शनिः

नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् |

छाया मार्ताण्ड सम्भूतं तं नमामि शनैश्चरम्


राहुः

अर्धकायं महावीरं चन्द्रादित्य विमर्धनम् |

सिंहिका गर्भ सम्भूतं तं राहुं प्रणमाम्यहम्


केतुः

पलाश पुष्प सङ्काशं तारकाग्रहमस्तकम् |

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्

 

फलश्रुतिः

इति व्यास मुखोद्गीतं यः पठेत्सु समाहितः |

दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति

 

नरनारीनृपाणां भवेद्दुःस्वप्ननाशनम् |

ऐश्वर्यमतुलं तेषामारोग्यं पुष्टि वर्धनम्

 

ग्रहनक्षत्रजाः पीडास्तस्कराग्नि समुद्भवाः |

तास्सर्वाः प्रशमं यान्ति व्यासो ब्रूते संशयः

 

इति व्यास विरचितं नवग्रह स्तोत्रं सम्पूर्णम् |

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments